संध्याकाळी दिवे लागण्याच्या वेळची प्रार्थना



श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्रीगुरुभ्यो नमः ।
श्रीवेदपुरुषाय नमः । इष्टदेवताभ्यो नमः ।
कुलदेवताभ्यो नमः । श्रीलक्ष्मीनारायणाभ्यां नमः ।
श्रीउमामहेश्वराभ्यां नमः । श्रीमातापितृभ्यां नमः ।
करदर्शन व भूमिवंदन
कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती ।
करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥१॥
समुद्रवसने देवि । पर्वतस्तनमण्डले ।
विष्णुपत्नि । नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥२॥
(मुखमार्जनानंतर)
वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं ।
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ॥
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं ।
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
मूकं करोति वाचालं पङ्गुं लङ्गयते गिरिम ।
यत्कृपा तमहं वंदे परमानन्दमाधवम् ॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुः साक्षात्परब्रह्म तस्मै श्रीगुरवे नमः ॥
ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम्
एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं
भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि॥
भोजनाच्या वेळचे श्लोक
वदनि कवळ घेता नाम घ्या श्रीहरीचे ।
सहज हवन होते नाम घेता फुकाचे ।
जिवन करि जिवित्वा अन्न हे पूर्णब्रह्म ।
उदरभरण नोहे जाणिजे यज्ञकर्म ॥१॥
जनीं भोजनी नाम वाचे वदावे ।
अती आदरे गद्यघोषे म्हणावे ।
हरिचिंतने अन्न सेवित जावे ।
तरी श्रीहरी पाविजेतो स्वभावे ॥२॥
जयजय रघुवीर समर्थ ॥
शुभं करोति कल्याणं आरोग्यं धनसंपदा ।
शत्रुबुद्धि विनाशाय दीपज्योति नमोऽस्तुते ॥१॥
दिव्या दिव्या दिपत्कार कानीं कुंडले मोतीहार ।
दिव्याला देखून नमस्कार ॥२॥
तिळाचे तेल कापसाची वात ।
दिवा जळो मध्यान्हरात ।
दिवा लागला देवापाशी ।
उजेड पडला तुळशीपाशी ।
माझा नमस्कार देवाधिदेवा तुमच्या चरणांपाशी ॥३॥
दीपज्योति परब्रह्म दीपज्योति जनार्दन ।
दीपो हरतु मे पापं संध्यादीप नमोऽस्तुते ॥४॥

ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसंनिविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्यमयवपुर्धृतशंखचक्रः ।
सूर्याची बारा नावे
ॐ मित्राय नमः ।
ॐ रवये नमः ।
ॐ सूर्याय नमः ।
ॐ भानवे नमः ।
ॐ खगाय नमः ।
ॐ पूष्णे नमः ।
ॐ हिरण्यगर्भाय नमः ।
ॐ मरिचये नमः ।
ॐ आदित्याय नमः ।
ॐ सवित्रे नमः ।
ॐ अर्काय नमः ।
ॐ भास्कराय नमः ।
ॐ श्रीसवितृसूर्यनारायणाय नमः ।
मित्ररविसूर्यभानुखगपूषहिरण्यगर्भमरीच्यादित्यसवित्रर्कभास्करेभ्यो नमो नमः ।
नमस्कार घालून झाल्यावर खालील श्लोक म्हणावे व तीर्थ घ्यावे
आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने ।
जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते ॥१॥
अकालमृत्युहरणं सर्वव्याधिविनाशनम् ।
सूर्यपादोदकं तीर्थं जठरे धारयाम्यहम् ॥२॥
अनेन नमस्काराख्येन कर्मणा श्रीसवितृसूर्यनारायणः प्रीयताम् ।
गङ्गे च यमुने चैव गोदावरि सरस्वती ।
नर्मदे सिंधु कावेरि जलेऽस्मिन् सन्निधिं करु ॥
नमामि गङ्गे तव पादपङ्कजं सुरासुरैर्वन्दितदिव्यरुपम् ।
भुक्तिं च मुक्तिं च ददासि नित्यं भावानुसारेण सदा नराणाम ॥
गङ्गा गङ्गेति यो ब्रुयात् योजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥
गङ्गाद्वारे कुशावर्ते बिल्वके नीलपर्वते ।
स्नात्वा कनखले तीर्थे पुनर्जन्म न विद्यते ।
पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः ।
त्राहि मां कृपया गङ्गे सर्वपापहरा भव ॥